(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.28. अध्यायः 028
Mahabharata - Udyoga Parva - Chapter Topics
युधिष्ठिरेण सञ्जयंप्रति धर्माधर्मनिर्णयस्य इतरासाधारणतया स्वस्य धर्मरहस्यज्ञश्रीकृष्णवचनानुययित्वकथनम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text

युधिष्ठिर उवाच। 5-28-0x(3429)(32512)
असंशयं सञ्जय सत्यमेत-
द्धर्मो वरः कर्मणां यत्त्वमात्थ ।
ज्ञात्वा तु मां सञ्जय गर्हयेस्त्वं
यदि धर्मं यद्यधर्मं चरामि ॥ 5-28-1(32513)
यत्राधर्मो धर्मरूपाणि धत्ते
धर्मः कृत्स्नो दृश्यतोऽधर्मरूपः।
बिभ्रद्धर्मो धर्मरूपं तथा च
विद्वांसस्तं संप्रपश्यन्ति बुद्ध्या ॥ 5-28-2(32514)
एवं तथैवापदि लिङ्गमेत-
द्धर्माधर्मौ नित्यवृत्ती भजेताम्।
आद्यं लिङ्गं यस्य तस्य प्रमाण-
मापद्धर्मं सञ्जय तं निबोध ॥ 5-28-3(32515)
लुप्तायां तु प्रकृतौ येन कर्म
निष्पादयेत्तत्परीप्सेद्विहीनः।
प्रकृतिस्थश्चापदि वर्तमान
उभौ गर्ह्यौ भवतः सञ्जयैतौ ॥ 5-28-4(32516)
अविनाशमिच्छतां ब्राह्मणानां
प्रायश्चित्तं विहितं यद्विधात्रा।
संपश्येथाः कर्मसु वर्तमानान्
विकर्मस्थान्सञ्जय गर्हयेस्त्वम् ॥ 5-28-5(32517)
मनीषिणां सत्त्विच्छेदनाय
विधियते सत्सु वृत्तिः सदैव।
अब्राह्मणाः सन्ति तु ये न वैद्याः
सर्वोत्सङ्गं साधु मन्येत तेभ्यः ॥ 5-28-6(32518)
तदध्वानः पितरो ये च पूर्वे
पितामहा ये च तेभ्यः परेऽन्ये।
यज्ञैषिणो ये च हि कर्म कुर्यु-
र्नान्यं ततो नास्तिकोऽस्मीति मन्ये ॥ 5-28-7(32519)
यत्किंचनेदं वित्तमस्यां पृथिव्यां
यद्देवानां त्रिदशानां परं यत्।
प्राजापत्यं त्रिदिवं ब्रह्मलोकं
नाधर्मतः सञ्जय कामयेयम् ॥ 5-28-8(32520)
धर्मेश्वरः कुशलो नीतिमांश्चा-
प्युपासिता ब्राह्मणानां मनीषी।
नानाविधांश्चैव महाबलांश्च
राजन्यभोजाननुशास्ति कृष्णः ॥ 5-28-9(32521)
यदि ह्यहं विसृजत्साम गर्ह्यो
नियुध्यमानो यदि जह्यां स्वधर्मम् ।
महायशाः केशवस्तद्ब्रवीतु
वासुदेवस्तूभयोरर्थकामः ॥ 5-28-10(32522)
शैनेयोऽयं चेदयश्चान्धकाश्च
वार्ष्णेयभोजाः कुकुराः सृञ्जयाश्च ।
उपासीना वासुदेवस्य बुद्धिं
निगृह्य शत्रून्सुहृदो नन्दयन्ति॥ 5-28-11(32523)
वृष्ण्यन्धका ह्युग्रसेनादयो वै
कृष्णप्रणीताः सर्व एवेन्द्रकल्पाः ।
मनस्विनः सत्यपरायणाश्च
महाबला यादवा भोगवन्तः ॥ 5-28-12(32524)
काश्यो बभ्रुः श्रियमुत्तमां गतो
लब्ध्वा कृष्णं भ्रातरमीशितारम् ।
यस्मै कामान्वर्षति वासुदेवो
ग्रीष्मात्यये मेघ इव प्रजाऽभ्यः ॥ 5-28-13(32525)
ईदृशोऽयं केशवस्तात विद्वान्
विद्धि ह्येनं कर्मणां निश्चयज्ञम्।
प्रियश्च नः साधुतमश्च कृष्णो
नातिक्रामे वचनं केशवस्य ॥ 5-28-14(32526)

इति श्रीमन्महाभारते उद्योगपर्वणि सञ्जययानपर्वणि अष्टाविंशोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-28-2 धर्माधर्मपरीक्षायां त्रैविध्यमाह यत्रेति । यत्र पुरुषे दम्भादिमति अधर्मः अभिचारार्थं मन्त्रजपादिः धर्म इत्येवान्ये जानन्ति। तथा प्रच्छन्नयोगिनि दत्तात्रेयादौ धर्मो रागद्वेषादिशून्यतारूपो योगधर्मोऽपि उन्मत्तवदाचरणादधर्मरूप इव दृश्यते। यत्र वसिष्ठादौ धर्मः धर्मरूप एव। यद्यपि चाण्डालादौ अधर्मोऽप्यधर्मरूप एवास्ति तथापि तस्यानुपादेयत्वान्त्रयमेव विचार्यम्। एतच्च त्वथापि विदुषा मयि विचार्यमित्याशयः ॥ 2 ॥ 5-28-3 आपत्कालवशाद्धर्माधर्मयोर्व्यत्यासो जायत इत्याह एवमिति। एतदेवंरूपं लोकप्रत्यक्षं लिङ्गं ब्राह्मणस्य स्वाध्यायप्रवचनादि। क्षत्रियस्य शौर्यादि। वैश्यस्य कृष्यादि । तत्तथैव यथोक्तमेव। तथापि नित्यवृत्ती नित्यं वर्तेते तौ नित्यवृत्ती धर्माधर्मौ तल्लिङ्गं भजेताम्। अयं भावः। क्षत्रलिङ्गं ब्राह्मणवैश्ययोरापदि धर्मः अनापद्यधर्मः । तथा चैकस्यैव लिङ्गस्य वर्णान्तरे अवस्थाभेदाद्धर्मत्वमधर्मत्वं च नित्यमिति। तत्रापि विशेषमाह आद्यमिति। आद्यं ब्राह्मणलिङ्गं याजनादि यस्यास्ति ब्राह्मणस्य तस्यैव तत् प्रमाणं अव्यभिचारि। आपद्यपि क्षत्रियेण याजनाध्यापनादिकं न कर्तव्यमित्यर्थः। एवं विधं तं आपद्धर्मं शास्त्रान्निबोध बुध्यस्व ॥ 3 ॥ 5-28-4 प्रकृतिः जीविकाहेतुभूतं धनम्। तच्च क्षत्रियस्य भूमिशस्त्रादिकम्। वैश्यस्य धपश्वादिकम्। तस्मिन्सर्वात्मना नष्टे सति येन कर्म संध्योपासनादिकं निष्पादयेत् तत् भिक्षाटनादिकमपि परिप्सेत्कर्तुमिच्छेत्। अन्यथा जीविकाया अभावात्कर्मलोपः प्राणनाशश्च स्यादतोऽत्यन्तापदि तावान् विप्रधमाऽपीतरैरनुष्ठेय एव। प्रकृतिस्थश्चेति। आपदि आपद्धर्मे प्रकृतिस्थोऽपि यद्यापद्वर्ममनुसरेत्स लोभाद्गर्ह्याः। आपत्स्थोऽपि यदि प्राकृतं धरममनुसरेत्स जीवनलोपात् कुटुम्बहिंसया च गर्ह्य इत्यर्थः। यो न कर्मेति कo डo पाठः ॥ 4 ॥ 5-28-5 यत् यस्माद्धेतोः । विधात्रा अविनाशं ब्राह्मण्यविनाशाभावमिच्छतां ब्राह्मणानां आपदुत्तीर्णानां प्रायश्चित्तं विहितम्। तस्माद्धएतोरापदि अन्यस्यान्यधर्माश्रयणं प्रसक्तमेवेति ज्ञायते। अत एव एवचक्रायागस्माभिः कृतं भिक्षाटनं नानुमितमित्यर्थः। एवमनापदि कर्मसु वर्तमानान् आपदि च विकर्मस्थान् संपश्येथाः सम्यगेवेदमिति पश्येथाः। अन्यथा तु आपदि कर्मस्थान् आत्मपरहिंस्रान् अनापदि विकर्मस्थांश्चतिलुब्धान् विहर्गयेस्त्वम्। आपद्येतान्कर्मसु इति कo डo पाठः ॥ 5 ॥ 5-28-6 किंच मनीषिणां मनसः निग्रहं नाशं कर्तुमिच्छताम्। ईष गतिहिंसादर्शनेष्वित्यस्य रूपम्। सत्त्विच्छेदनाय सत्त्वस्य बुद्धिसत्त्वस्य चिदात्मना सह एकलोलीभूतस्य विच्छेदनाय मुञ्जेषीकान्यायेन पृथक्करणाय सत्सु सतां गृहेषु वृत्तिर्जीविका शास्त्रे विधीयते। वेदानिमं लोकममुं च परित्यज्यात्मनात्मानमन्विच्छेदितिश्रुत्यात्मान्वेषणाय सर्वसंन्यासपूर्वकं भिक्षाचर्यविधानात्। न ब्राह्मी वृत्तिः कस्यापि निन्द्या। येतु अब्रह्माणा अपि वैद्याः विद्यानिष्ठाः न भवन्ति तेषां भिक्षाचर्यस्याविधानात् तेभ्यः तेषामर्थे सर्वोत्सङ्गं सर्वेषामुत्सङ्गं समीपं स्वधर्मसंयोगं आपदनापदोरुचितं साधु मन्येत। सर्वोच्छेदमिति कo डo पाठे तेभ्यस्तेषामर्थे भिक्षाद्यटनं सर्वधर्मोच्छेदाय मन्येतेत्यर्थः ॥ 6 । 5-28-7 तदधान इति। पित्रादयः यज्ञैषिणो ये ते सर्वे तदध्वानः स एव मयोक्तोऽध्वा मार्गो येषां ते तदध्वानोऽभूवन्। हि प्रसिद्धम्। ये च कर्म न कुर्युः संन्यासिन इत्यर्थः। ते सर्वे तदध्वानः। अहमपि आस्तिकेऽस्मिति ततोऽन्यं अध्वानं न मन्ये ॥ 7 ॥ 5-28-9 धर्मेश्वरः धर्मफलस्य दाता ॥ 9 ॥ 5-28-12 कृष्णप्रणीताः कृष्णेनैव नीतिपथं नीताः ॥ 12 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.